यस्मिन् देशे वयं जन्मधारणं कुर्मः स हि अस्माकं देशः जन्मभूमिः वा भवति । देशभक्तिः व्यक्ति-समाज -देशकल्याणार्थ परमम् औषधम् अस्ति ।
सताम् आचारः सदाचारः कथ्यते । सज्जनाः यानि कर्माणि कुर्वन्ति तानी एव अस्माभिः कर्तव्यानि । ऋषयश्च वदन्ति यानि अनिन्द्यानि कर्माणि तानि सेवितव्यानि नेतराणि ।
परेषां उपकाराय कृतम् कर्म उपकारः कथयते । अस्मिन् जगति सर्वेजनाः स्वीयं सुखं वाञ्छन्ति । परोपकारः दैव भावः अस्ति । मेघाः परोपकाराय जलं वहन्ति ।
यत्र विविधानि पुस्तकानि पठनार्थं संगृहीतानि भवन्ति तत् स्थानम् पुस्तकालयः उच्यते । अत्र शैक्षणिकानि पुस्तकानि संगृहीतानि भवन्ति ।
भ्रमण-धावन-क्रीडनादिभिः शरीरम् श्रान्तकरणम् व्यायामः कथ्यते । अस्य नित्यानुष्ठानेन गात्राणि पुष्ठानि भवन्ति ।
सतां सज्जनानां संगतिः । सज्जनानां संगत्या ह्रदयं विचारं च पवित्रम् भवति ।अनया जनः स्वार्थभावं परित्यज्य लोककल्याणकामः भवति ।
शरीरेण मानसिकेन कृतं कर्म -श्रमं इति कथ्यते ।श्रमेण विना जीवनं जीवनं नहि । श्रमेण विना भोजनमपि दुष्पाप्यम् भवति ।
अस्माकं देशः भारतवर्षम् अस्ति । अयं हि हिमालयात् रामेश्वरम् पर्यन्तम् पुरीतः द्धारका पर्यन्तं प्रसृतः अस्ति ।
अस्माकं प्रिय नेता राष्ट्रपिता महात्मा गाँधी अस्ति । स हि गतोऽपि जीवितः एव अस्ति ।
अस्माकं देशे सर्वासु नदीषु गंगा अतिश्रेष्ठा प्रधाना पवित्रतमा च वर्तते । इयम् हिमालयात् निःसृत्य बंगोपसागरे पतति ।
आश्विन शुक्लपक्षे प्रतिवर्षं दुर्गा पूजयन्ति भारतवासिनः । देव्याः पुजनेन मानवस्य न कुत्रापि पराजयों भवति ।
शासनमनु अनुशासनम् अर्थात शासनेन निर्मितानि नियमनि पालयन्तः लोकाः अनुशासिताः कथ्यते ।